
Surabhi Stotram सुरभि स्तोत्रम्
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersShow Notes
।। श्री सुरभि स्तोत्रम् ।। ✓
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥ नमो राधा प्रियायै च पद्मांशायै नमो नमः । नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥ कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् । श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥ शुभदायै प्रसन्नायै गोप्रदायै नमो नमः । यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥ स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥ महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥ बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥ इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥ सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥ सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् । न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥
इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डे इन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥
More from Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
श्री पार्वती शक्ति तांडव स्तुति
लघु दुर्गासप्तशती - माँ दुर्गा सभी दुखों को हर लेगी। यह पाठ करने से सम्पूर्ण दुर्गा सप्तशती पाठ करने का फल प्राप्त होता है।