
Ganesh Stavraj गणेश स्तवराज
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersShow Notes
Ganesh Stavraj गणेश स्तवराज
अजं निर्विकल्पं निराकारमेकं निरानन्दमद्वैतमानन्दपूर्णम् । परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ १॥
गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् । मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ २॥
जगत्कारणं कारणाज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् । जगद्वापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३॥
रजोयोगततो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् । सर्वविद्यानिधानं जगत्कारकं परब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥
सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् । अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नमामः ॥ ५॥
तमोयोगिनं रुद्ररूप त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नमामः ॥ ६॥
तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् । मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ७॥
निजैरौषधीस्तर्पयन्तं करोधैः सुरौघान्कलाभिः सुधास्राविणीभिः | दिनेशांशु सन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ ८॥
प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् । अनेकक्रियानेक शक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ९॥
प्रधानस्वरूपं महतत्वरूपं धरावारिरूपं दिगीशादिरूपम् । असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नमामः ॥ १०॥
त्वदीये मनः स्थापयेदङ्गियुग्मे जनो विघ्नसङ्खान्न पीडां लभेत । लसत्सूर्यविम्बे विशाले स्थितेऽयं जनो ध्वान्त पीडां कथं वा लभेत ॥ ११॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगा दलब्ध्वा तवाङ्किम बहून्वर्षपूगान् । इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान सदा पाहि विश्वम्भराद्य ॥ १२॥
एवं स्तुतो गणेशस्तु सन्तुष्ठोऽभून्महामुने । कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३ ॥
More from Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
श्री पार्वती शक्ति तांडव स्तुति
लघु दुर्गासप्तशती - माँ दुर्गा सभी दुखों को हर लेगी। यह पाठ करने से सम्पूर्ण दुर्गा सप्तशती पाठ करने का फल प्राप्त होता है।