
Sri Kameshwari Stuti श्री कामेश्वरी स्तुति
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersShow Notes
Sri Kameshwari Stuti श्री कामेश्वरी स्तुति
ओम ऐं ह्मीं क्लीं कामाख्यायै नमः। ओम क्लीं क्लीं कामाख्या क्लीं क्लीं नमः। युधिष्ठिर उवाच - नमस्ते परमेशानि ब्रह्मरूपे सनातनि । सुरासुरजगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ १॥
न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः । प्रसीद जगतामाद्ये कामेश्वरि नमोऽस्तु ते ॥ २॥
अनादिपरमा विद्या देहिनां देहधारिणी । त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ ३॥
त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः । त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोऽस्तु ते ॥ ४॥
त्वामाराध्य महेशोऽपि कृतकृत्यं हि मन्यते । आत्मानं परमात्माऽपि कामेश्वरि नमोऽस्तु ते ॥ ५॥
दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे । लोकानां तापसंहर्त्रि कामेश्वरि नमोऽस्तु ते ॥ ६॥
त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी । करालवदने कालि कामेश्वरि नमोऽस्तु ते ॥ ७॥
प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे । प्रसीद परमे पूर्णे कामेश्वरि नमोऽस्तु ते ॥ ८॥
त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते । जगतां त्रिजगद्धात्रि कामेश्वरि नमोऽस्तु ते ॥ ९॥
शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी । त्वमेव मातर्विश्वेशि कामेश्वरि नमोऽस्तु ते ॥ १०॥
।।इति श्रीमहाभागवते महापुराणे युधिष्ठिरकृता कामेश्वरीस्तुतिः सम्पूर्णा ।।
More from Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
श्री पार्वती शक्ति तांडव स्तुति
लघु दुर्गासप्तशती - माँ दुर्गा सभी दुखों को हर लेगी। यह पाठ करने से सम्पूर्ण दुर्गा सप्तशती पाठ करने का फल प्राप्त होता है।