
Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersShow Notes
Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्
नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १॥
नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २॥
महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते॥३॥
उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ४॥
विचित्रवसने देवि भवदुःखविनाशिनि । कुचभारनते देवि ! लक्ष्मीदेवि नमोऽस्तुते ॥ ५॥
साधकाभीष्टदे देवि अन्नदानरतेऽनघे । विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६॥
षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये । ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते।।७॥
देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि । सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८॥
पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः । तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९॥
प्रातःकाले पठेद्यस्तु मन्त्रपूजापुरःसरम् । तस्य चान्नसमृद्धिः स्याद्वर्द्धमानो दिनेदिने ॥ १०॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।प्रकाशात्कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्११॥
त्रैलोक्यमङ्गलं नाम स्तोत्रमेतत्प्रकीर्तितम् । ब्रह्मविद्यास्वरूपञ्च महैश्वर्यप्रदायकम् ॥ १२॥
🪷🪷🪷🪷🪷
More from Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
श्री पार्वती शक्ति तांडव स्तुति
लघु दुर्गासप्तशती - माँ दुर्गा सभी दुखों को हर लेगी। यह पाठ करने से सम्पूर्ण दुर्गा सप्तशती पाठ करने का फल प्राप्त होता है।