
Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersShow Notes
Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र
यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् । भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥
हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहयोः । अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥
स्वर्गपाताललोकानां पृथिव्या जलधेरपि । नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥
वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च । उत्पत्तिस्थितिसंहारकारिणे ते नमो नमः ॥
पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने । नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥
नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे । मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥
नमोऽभक्तविनाशाय नमो भक्तप्रियाय च । अधिदैवाधिभूतात्मंस्तापत्रयहराय ते ॥
सर्वोत्पातविघाताय नमो लीलास्वरूपिणे । सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥
अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते। परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥
अमेयमायान्वितविक्रमाय मायाविने मायिकमोहनाय । अमेयमायाहरणाय माया- महाश्रयायास्तु नमो नमस्ते ॥
य इदं पठते स्तोत्रं त्रिसंध्योत्पातनाशनम् । न भवन्ति महोत्पाता विघ्ना भूतभयानि च॥
त्रिसंध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात्। विनायकः सदा तस्य रक्षणं कुरुतेऽनघ ॥
इति श्रीगणेशपुराणे उत्पातनाशनगणेशस्तोत्रं सम्पूर्णम् ॥
More from Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
श्री पार्वती शक्ति तांडव स्तुति
लघु दुर्गासप्तशती - माँ दुर्गा सभी दुखों को हर लेगी। यह पाठ करने से सम्पूर्ण दुर्गा सप्तशती पाठ करने का फल प्राप्त होता है।