
Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersShow Notes
Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्
जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥
मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥२॥
कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥
गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर । ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥
स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् । दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥
अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् । इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥
More from Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
श्री पार्वती शक्ति तांडव स्तुति
लघु दुर्गासप्तशती - माँ दुर्गा सभी दुखों को हर लेगी। यह पाठ करने से सम्पूर्ण दुर्गा सप्तशती पाठ करने का फल प्राप्त होता है।